2022-09-09 02:55:14 by ambuda-bot
This page has not been fully proofread.
प्रथमोऽध्यायः ।
तस्मिन् पुण्यापुण्यात्मक कर्मणि स्थितोऽपि कुर्वन्नपि उभयं
पुण्यापुण्यलक्षणं कर्म नित्यं नियमेन विद्वान् ज्ञानेन प्रतिहन्ति
विनाशयति । कथमेतद्वगम्यते ज्ञानेन विद्वान्प्रतिहन्तीति ?
तत्राह — सिद्धं प्रसिद्धं ह्येततिस्मृतीतिहासपुराणेषु । तथा
च श्रुतिः— 'भिद्यते हृदयग्रन्थिः' इत्यादिः ; 'यथा पुष्कर-
पलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न लिप्य
ते ' इति ; ' तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे
पाप्मान: प्रदूयन्ते ' इति ' तथा विद्वान्पुण्यपापे विधूय
निरञ्जनः परमं साम्यमुपैति' इति । " अश्व इव रोमाणि
विधूय पापम्' इति । 'यथैधांसि समिद्धोऽग्निर्भम्मसात्कुरुते-
ऽर्जुन' इति । अथान्यथा ज्ञानविहीनश्चेत् पुण्यमुपैति देही
तथागतं पापमुपैति तत्फलं चोपभुङ्गे । कथमेतद्वगम्यत
इति चेत्, तत्राह — सिद्धं प्रसिद्धं ह्येतदपि श्रुतिस्मृतीति-
हासपुराणादिषु । तथा च श्रुतिः - 'इष्टापूर्त मन्यमाना
वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पष्ठे सुकृतेन
भूत्वेमं लोकं पुनरेवाविशन्ति' इति । 'अनन्दा नाम ते
लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के
चात्महनो जनाः ' इति । तथैव वासुदेवः— 'त्रैविद्या माम्'
इति, 'ते तं भुक्त्वा स्वर्गलोकं विशालम्' इति च ॥
6
-