This page has not been fully proofread.

२१८
 
सनत्सुजातीयभाप्ये
 
धृतराष्ट्र उवाच-
यस्माद्धर्मानाचरन्तीह केचि
त्तथाधर्मान्केचिदिहाचरन्ति ।
धर्मः पापेन प्रतिहन्यते वा
 
उताहो धर्मः प्रतिहन्ति पापम् ॥ २२ ॥
 
यस्माद्धर्मान् अग्निहोत्रादीन आंचरन्ति इह लोके केचित् ।
तथा अधर्मानिहाचरन्ति । कि तेषां धर्मः पापेन प्रतिहन्यते
वा? उताहो स्वित् धर्मः प्रतिहन्ति पापम् ? अथवा तुल्यबल -
त्वेनान्यतरेण अन्यतरस्यापि नाश : ? इति ॥
 
अविदुष उभयोरनुभव एव, नान्यतरेणान्यतरस्य नाशः ।
विदुषः पुनरुभयोरपि ज्ञानाग्निना नाश इत्युत्तरमाह-
-
 
सनत्सुजात उवाच-
तस्मिन्स्थितो वाप्युभयं हि नित्यं
 
ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम् ।
अथान्यथा पुण्यमुपैति देही
 
तथागतं पापमुपैति सिद्धम् ॥ २३ ॥
 
एवं पृष्टः प्राह भगवान् सनत्सुजात:-