This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
तत्राह—तदर्थयोगे तस्य परमात्मनो जगदुपाड़ानभूतमायार्थ-
योगे च भवन्ति वेदाः । तस्य मायासद्भावे वेदाः प्रमाणं
भवन्तीत्यर्थः । तथा च श्रुतिः - इन्द्रो मायाभिः पुरुरूप
ईयते' 'अस्मान्मायी सृजते विश्वमेतत्' 'मायिनं तु महे-
श्वरम्' 'देवात्मशक्तिं स्वगुणैर्निगृढाम' इति । तथा चाह् भ-
गवान्वासुदेवः—'ढैवी ह्येषा गुणमची मम माया दुरत्यया ।
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन । प्रकृतिं स्वा-
मधिष्ठाय संभवाम्यात्ममायया ॥ मयाध्यक्षेण प्रकृतिः सूयते
सचराचरम्' इति । तथा च – माया तवेयमज्ञातपढार्थान-
तिमोहिनी । अनात्मन्यात्मविज्ञानं यया मूढोऽधिरोहति ॥ इय-
मस्य जगद्धातुर्माया कृष्णस्य गह्वरी । धार्यधारकभावेन यया
संपीडितं जगत् ॥ अहो स्म दुस्तरा विष्णोर्मायेयमतिगह्वरी ।
यया मोहितचित्तस्तु न वेत्ति परमेश्वरम् इति ॥
 
एवं तावत् 'प्रमादं वै मृत्युमहं ब्रवीमि' इत्यादिना मृत्योः
स्वरूपं तस्य कार्यात्मनावस्थानं तन्निमित्तं चानेकानर्थ दर्शयि-
त्वा केन तर्ह्यस्य विनाश इत्याशङ्कय 'एवं मृत्युं जायमानं
विदित्वा ज्ञानेन तिष्ठन्न बिभेति मृत्योः' इत्यादिना आत्मज्ञा-
नादेवाभयप्राप्तिं दर्शितां श्रुत्वा प्रासङ्गिके चोद्यद्वये परिहृते,
कर्मस्वरूपविज्ञानाय प्राह धृतराष्ट्र:-