This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
अपरं तेज: आदित्यादिकं व्यावर्त्यते । सर्वत्र यो देवः इति
विशेष्यते -- यो देवः परमं तेजः परमं तपः परमं ब्रह्म परमं
परायणम्, स एकः सर्वभूतानां परायणमिति वाक्यार्थः ॥
प्रथमप्रश्नस्योत्तरमाह --
 
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥
 
पवित्राणां पावनानां तीर्थादीनां पवित्रम् । परमस्तु
पुमान् ध्यातो दृष्टः कीर्तित: स्तुत: संपूजितः स्मृतः प्रणतः
पाप्मनः सर्वानुन्मूलयतीति परमं पवित्रम् | संसारबन्धहेतु-
भूतं पुण्यापुण्यात्मकं कर्म तत्कारणं च अज्ञानं सर्व नाशयति
स्वयाथात्म्यज्ञानेनेति वा पवित्राणां पवित्रम् ||
 
रूपमारोग्यमथच भोगांश्चैवानुषङ्गिकान् ।
ददाति ध्यायतो नित्यमपवर्गप्रदो हरिः ||
चिन्त्यमानः समस्तानां क्लेशानां हानिदो हि यः ।
समुत्सृज्याखिलं चिन्त्यं सोऽच्युतः किं न चिन्त्यते ॥
ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु ।
प्रायश्चित्तं हि सर्वस्य दुष्कृतस्येति वै श्रुतिः ॥
संसारसर्पसंदष्टनष्टचेष्ठैकभेषजम् ।
 
कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन्नरः ||