This page has not been fully proofread.

२१६
 
सनत्सुजातीयभाष्ये
 
चारी वा वानप्रस्थोऽथ वा पुनः । य इच्छेन्मोक्षमास्थातुमु
त्तमां वृत्तिमाश्रयेत्' इति । 'एतत्तु ब्राह्मणं वृत्तमाहुरेकपदं
सुखम् । एषा गतिर्विरक्तानामेष धर्मः सनातनः' इति ।
यस्मादेवं तस्माद्विविदुषोर्मुमुक्षोश्च सर्वकर्मसंन्यास एवाधि-
कारः ॥
 
एवं तावदेकस्यैव परमात्मनोऽनादिमायायोगेन बहुरूपत्व-
मुक्तम् । इदानीं यदीश्वरस्य जगत्कारणत्वं तदपि मायोपाधि-
कमित्याह-
यदेतद्वा भगवान्स नित्यं
 
विकारयोगेन करोति विश्वम् ।
तथा च तच्छक्तिरिति स्म मन्ये
तदर्थयोगे च भवन्ति वेदाः ॥ २१ ॥
 
यदेतत् अद्धा परमार्थभूतो भगवान् ऐश्वर्यादिसमन्वितः
सः परमेश्वरो नित्यं विकारयोगेन ईक्षणादिपूर्वकं विश्वं क
रोति इति तत्सर्वं तथा तच्छक्तिः परमात्मनः शक्तिः मायैव
करोति न परमात्मा अपूर्वादिलक्षणः इति स्म मन्ये । न स्वतः
चिदानन्दाद्वितीयस्य कारणत्वम्, किंतु मायावेशवशादि-
त्यर्थः । किं तर्ह्यख तथाभूतशक्तियोगे प्रमाणमिति चेत्,