This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
लक्षणो योगो ज्ञानं संन्यासलक्षणम् । तस्माज्ज्ञानं पुरस्कृत्य
 
तथा च शान्तिपर्वणि
 
संन्यसेदिह बुद्धिमान् इति ।
शुकं प्रत्युपदिष्टवान्भगवान्त्र्यासः-
6
 
'कर्मणा बध्यते जन्तु-
-
विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पार-
दर्शिनः ॥ एषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम् ।
एषा पूर्वतरै: सद्भिराचीर्णा परमर्षिभिः ॥ प्रजेच परं स्थानं
पारिव्राज्यमनुत्तमम् । तद्भावानेवमभ्यस्य वर्ततां श्रूयतां तथा
इति । तथा च सर्वकर्मसंन्यासं दर्शयति भगवान्नारद:-
संन्यस्य सर्वकर्माणि संन्यख विपुलं तपः । संन्यस्य विविधा
विद्याः सर्वे संन्यस्य चैव हि ॥ शक्यं त्वेकेन मुक्तेन कृत-
कृत्येन सर्वशः । पिण्डमात्रमुपाश्रिय चरितुं सर्वतोदिशम ॥
हित्वा गुणमयं पाशं कर्म हित्वा शुभाशुभम् । उभे सत्यानृते
त्यक्त्वा एवं भवति निर्गुणः ॥ परिग्रहं परित्यज्य भव तात
जितेन्द्रियः । अशोकस्थानमातिष्ठ इह चामुख चाभयम्'
इति । तथा च सर्वकर्मसंन्यासिन एव ज्ञाने अधिकारः नेत-
रस्येत्याह भगवान्बृहस्पतिः - 'प्रसृतैरिन्द्रियैर्दुःखी तैरेव नि-
यतः सुखी । रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानमाप्नुयात् '
इति । तथा चाश्वमेधिके ब्रह्मणा सम्यगुक्तं मुनीन्प्रति सर्वा-
श्रमिणां सर्वकर्मसंन्यासे अधिकार इति – 'गृहस्थो ब्रह्म-
.
 
२१५
 
-