This page has not been fully proofread.

२१४
 
सनत्सुजातीयभाप्ये
 
.
 
हितं गुहायां विभ्राजते यद्यनयो विशन्ति । वेदान्तविज्ञानसु-
निश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु
परान्तकाले परामृतात्परिमुच्यन्ति सर्वे इति । तथा च
बृहदारण्यके सर्वकर्मसंन्यासं दर्शयति — 'एतं वैतमात्मानं
विदित्वा ब्राह्मणाः पुत्रेषणायाश्च वित्तैषणायाञ्च लोकैषणायाश्च
व्युत्थायाथ भिक्षाचर्य चरन्ति इति । तथा च भग-
बान्बासुदेवः सर्वकर्मसंन्यासं दर्शयति – 'निराशीर्यतचि
तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्व-
नोति किल्विषम् ॥ अनपेक्षः शुचिर्दक्ष उदासीनो गत -
व्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ यो
न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरि-
त्यागी भक्तिमान्यः स मे प्रियः ॥ मानापमानयोस्तुल्यस्तुल्यो
मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं
परमां संन्यासेनाधिगच्छति ॥ सर्वधर्मान्परित्यज्य मामेकं
शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः
इति । तथा चानुगीतासु कर्मणि प्रयोजनाभावं दर्शयति भग-
वान् – 'नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी । यः
स्यादेकासने लीनस्तूष्णीं किंचिदचिन्तयन्' इति । 'प्रवृत्ति
 
·