This page has not been fully proofread.

प्रथमोऽध्याय ।
 
ज्ञानमेव परं ब्रह्म ज्ञानं वन्धाय चेष्यते ।
ज्ञानात्मकमिदं सर्वे न ज्ञान
 
परम ॥
 
विद्याविद्ये च मैत्रेय ज्ञानमेवोपधारय ॥ इति ।
 
२०३
 
तथा चैतत्सर्व स्पष्टमाह भगवान सनत्सुजातः ब्रह्माण्ड-
पुराणे कावषेयगीताप्रसङ्गे – वेदान्पठध्वं विधिवद्रतानि
कृत्वा विवाहं च मखैर्यजध्वम् । उत्पाद्य पुत्रान्वयसो बिरामे
देहं यजध्वं नियतास्तपोभिः ' इति । • किमद्य नश्चाध्ययनेन
कार्य किमर्थवन्तश्च मर्यजामः । प्राणं हि वाप्यनले जोह-
वीमः प्राणानले जोहवीमीति वाचम्' इति कृतकृत्यत्वेन
यज्ञाद्यनुष्ठानेन आत्मन: प्रयोजनाभावं दर्शयित्वा
गत्तु वेश्यागृहसंनिवेशात्पुण्यक्षयान्ते पतनं स्यावश्यम् ।
मनुष्यलोके विजरा विदुःखम् ...' इति यज्ञादिसाध्यस्य लोक-
म्यानित्यत्वादिदोषदुष्टत्वेन हेयत्वं दर्शयित्वा यजुर्वेदोपनिषदि
'सत्यं परं परम्' इत्यारभ्य सत्यादीनां माहात्म्यं दर्शयित्वा
'न्यासः' इत्यारभ्य 'तानि वा एतान्यवराणि तपास
न्यास एवात्यरेचयत् इत्यन्तेन नित्यसिद्धनिरतिशयानन्द-
ब्रह्मप्राप्तिसाधनस्य तत्साधनत्वेन अपरानियफलसाधनाद्यज्ञा-
दे: सर्वस्मादुत्कृष्टत्वं संन्यासस्योक्तं तत्रैव श्रूयते – 'न कर्मणा
न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । परेण नाकं नि-

 
-