2022-09-09 02:55:13 by ambuda-bot
This page has not been fully proofread.
सनत्सुजातीयभाध्ये
तस्यात्मपरदेहेषु सतोऽप्येकमयं हि तत् ॥
विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यदर्शिनः ।
तदेतदुपदिष्टं ते संक्षेपेण महामते ॥
परमार्थसारभूतं यत्तद्द्वैतमशेषतः ।
सितनीलादिभेदेन यथैकं दृश्यते नभः ॥
भ्रान्तिदृष्टिभिरात्मापि तथैकः सन्पृथक्कृतः ॥
एक: समस्तं यदिहास्ति किंचि
त्तदच्युतो नास्ति परं ततोऽन्यत् ।
सोऽहं स च त्वं स च सर्वमेत-
दात्मस्वरूपं त्यज भेदमोहम् ॥
२१२
इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः ।
स चापि जातिस्मरणाप्रबोधस्तत्रैव जन्मन्यपवर्गमाप ॥
ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च ।
नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥
विस्तारः सर्वभूतस्य विष्णोर्विश्वमिदं जगत् ।
द्रष्टव्यमात्मनस्तस्माद्भेदेन विचक्षणैः ॥
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥
तद्भावभावमापन्नस्तदासौ परमात्मना ।
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥