This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
बम्त्वस्ति किं कुत्रचिदादिमध्य-
पर्यन्तहीनं सततैकरूपम् ।
यच्चान्यथात्वं द्विज याति भूयो
न तत्तथा तस्य कुतो हि तत्त्वम ॥
मही घटत्वं घटतः कपालिका
कपालिका चूर्णरजम्ततोऽणुः ।
जनैः स्वकर्मस्तिमितात्मनिश्चयै-
रालक्ष्यते ब्रूहि किमत्र वस्तु ॥
तस्मान्न विज्ञानमृतेऽस्ति किंचि
 
त्क्कचित्कदाचिह्निज वस्तुजातम् ।
विज्ञानमेकं निजकर्मभेद-
विभिन्नचित्तैर्बहुधाभ्युपेतम् ॥
 
ज्ञानं विशुद्धं विमलं विशोकमशेषदोषादिनिरस्तसङ्गम ।
एकं सदैकं परमः परेशः स वासुदेवो न यतोऽन्यदस्ति ॥
सद्भाव एप भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यन् ।
एतत्तु यत्संव्यवहारभूतमत्रापि चोक्तं भुवनाश्रयं ते ॥
परमार्थस्तु भूपाल संक्षेपाच्छूयतां मम ।
 
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ॥
जन्मवृद्धचादिरहितो ह्यात्मा सर्वगतोऽव्ययः ।
परज्ञानमयोऽसद्भिर्नामजात्यादिभिविभुः ॥
न योगवान्न युक्तोऽभून्नैव पार्थिव योक्ष्यति ।
 
-
 
२११