This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
भजत्यव्यभिचारेण परमात्मानमच्युतम् ।
तद्भक्तस्तत्प्रसादेन ज्ञानानलसमन्वितः ॥
अखिलं कर्म दग्ध्वान्यैर्विष्ण्वाख्यममृतं शुभम् ।
प्राप्नोति सर्वसिद्धार्थमिति वेदानुशासनम् ॥ इति ।
 
२१०
 
तथाहि भगवान्परमगुरुः पराशरः आत्मव्यतिरिक्तस्य स-
र्वस्य मिथ्यात्वं दर्शयति-
ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥
ज्ञानस्वरूपमखिलं जगदेतद्बुद्धयः ।
अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥
ये तु ज्ञानविदः शुद्धचेतसस्तेऽखिलं जगन् ।
ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥
ज्ञानस्वरूपो भगवान्यतोऽसा-
वशेषमूर्तिर्न तु वस्तुभूतः ।
ततो हि शैलाब्धिधरादिभेदा-
जानीहि विज्ञानविजृम्भितानि ॥
 
यदा तु शुद्धं निजरूपि सर्व-
कर्मक्षये ज्ञानमपास्तदोषम् ।
तदा हि संकल्पतरोः फलानि
 
भवन्ति नो वस्तुषु वस्तुभेदाः ॥