This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
२०९
 
'न जायते न म्रियते न वध्यो न च
बन्धकारी वा न मुक्तो न च मोक्षदः ॥
पुरुषः परमात्मा तु यत्ततोऽन्यदसच्च तन्' इति । तथा चाह
भगवान्परमेश्वरः— · अहं प्रशास्ता सर्वस्य मायातीतस्त्रभा-
वतः । न चाप्ययं संसरति न च संसारयेत्प्रभुः' इति । किच,
मायानिमित्तभेदेऽभ्युपगम्यमाने अस्य परमात्मनः कार्यकार-
णात्मना अवस्थितस्यापि आधिक्यं स्वरूपाधिक्यं नापैति
किंचित् किंचिदपि, मायात्मकत्वात्संसारस्य पूर्ववत्कूटस्थ एव
भवतीत्यर्थः । यस्मादेवं तस्मात् अनादियोगेन अनाद्यविद्या-
योगेन भवन्ति पुंसः पुमांसो जीवा: बहवो भवन्ति । अथवा,
पुंसः पुरुषस्य पूर्णस्य परमात्मनो या माया अनादिसिद्धा
तद्योगेन वहवो भवन्ति । तथा चैतत्सर्वमनुगीतासु स्पष्टमाह—
 
अज्ञानगुणरूपेण तत्त्वरूपेण च स्थितम् ।
ममत्वे यदि संसारो नोच्छिद्येत कथंचन ॥
अविद्याशक्तिसंपन्नः सर्वयोनिषु वर्तते ।
तत्त्याज्यं सर्वविदुषां मोहनं सर्वदेहिनाम् ॥
तन्नाशेन महानात्मा राजते नात्र संशयः ।
अहंकारस्य विजये ह्यात्मा सिद्धो भविष्यति ॥
सिद्धे चात्मनि निर्दुःखी पूर्ववोधो भविष्यति ।
र्णबोधं परानन्दमनन्तं लोकभावनम् ॥
 
SM B 11
 
कावषेयगीतासु—
घातकः । न बद्धो