This page has not been fully proofread.

२०८
 
सनत्सुजातीयभाष्ये
 
6
 
परमात्मनो मायया बहुरूपत्वमुपपद्यत एवेत्यर्थः । श्रूयतेच
एकस्य मायया बहुरूपत्वम्- 'रूपं रूपं प्रतिरूपो बभूव'
'इन्द्रो मायाभिः पुरुरूप ईयते' 'एको देवः सर्वभूतेषु गूढः
'एकं सद्विप्रा बहुधा वदन्ति' 'एकं सन्तं बहुधा कल्प-
यन्ति 'एको देवो बहुधा निविष्ट: ' 'एक: सन बहुधा
विचार: ' ' ' त्वमेकोऽसि बहूननुप्रविष्ट : ' 'अजायमानो बहुधा
विजायते' इति । तथा च मोक्षधर्मे– 'एक एव हि भू-
तात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते
जलचन्द्रवत्' इति । तथा च याज्ञवल्क्य:- 'आकाशमेकं
हि यथा घटादिषु पृथग्भवेत् । तथात्मैकोऽप्यनेकश्च जला-
धारेष्विवांशुमान्' इति । तथा च कावषेयगीतासु- 'एकच
सूर्यो बहुधा जलाधारेषु दृश्यते । आभाति परमात्मापि सर्वो-
पाधिषु संस्थितः । ब्रह्म सर्वशरीरेषु बाह्ये चाभ्यन्तरे स्थि-
तम् । आकाशमिव कुम्भेषु बुद्धिगम्यो न चान्यथा' इति ।
तथा चाह परमेश्वरः—'नित्यः सर्वगतो ह्यात्मा कूटस्थो दोष-
वर्जितः । एकः सन्भिद्यते शक्त्या मायया सर्वभावत: ' इति ।
यस्मादेकस्यैव मायया बहुरूपत्वम् तस्मात्स एव कारणात्मा
परमेश्वरः कार्यात्मानं जीवात्मानं नियुङ्के कृतप्रयत्नापेक्ष: स
न्मायया, न परमार्थतः संसरति संसारयति वा । तथा चोक्तं
 
9