This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
एवं पृष्टः प्राह भगवान्-
सनत्सुजात उवाच -
 
दोषो महानत्र विभेदद्योगे
ह्यनादियोगेन भवन्ति नित्याः ।
तथास्य नाधिक्यमपैति किंचि-
दनादियोगेन भवन्ति पुंसः ॥ २० ॥
 
-
 
यद्येवं चोद्यत एषोऽभिप्रायः – नियोज्यनियोजकत्वादिभे-
ददर्शनादेकस्य कूटस्थस्य तदसंभवात् भेदेन भवितव्यमिति ।
तत्र यदि ब्रह्मण एव नानात्वमभ्युपगम्यते तदा अत्र अस्मिन
विभेद्योगे ब्रह्मणो नानात्वयोगे दोषो महान् ; को दोष: ? अ-
द्वैतिनो ह्यतथ्यवादिनोऽवैदिका भवेयुः, वेदहृदयं परमार्थमद्वै-
तं च बाध्यं स्यात् । किंच-नानारूपेण परिणतत्वानित्यत्वा-
दिदोषः, अस्थूलादिवाक्यविरोधश्च प्रसज्येत ।
 
अथोच्यते – ब्रह्मणो नानात्वं नास्माभिरभ्युपगम्यते, अपि
तु जीवपरयोर्भेदोऽभ्युपगम्यते इति । तत्रापि महान् दोषो
विनाश: प्राप्नोति । श्रूयते च, 'यदा ह्येवैष एतस्मिन्नुद-
रमन्तरं कुरुते । अथ तस्य भयं भवति' 'मृत्योः स मृत्युमा
प्नोति य इह नानेव पश्यति' 'अथ योऽन्यां देवतामुपास्ते