This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रइति मनुवचनाम-
इति मनुवचनात् ।'
त् ।'जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते ।
अहिंसया च भूतानां जपयज्ञ: प्रवर्तते' इति महाभारते ।
'यज्ञानां जपयज्ञोऽस्मि' इति भगवद्वचनम् । एतत्सर्वमभि-
प्रेत्य ' एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः' इत्युक्तम् ||

द्वितीयं प्रश्नं समाधत्ते--

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ ९ ॥
 
परमं प्रकृष्टं महत् बृहत् तेज: चैतन्यलक्षणं सर्वावभास-
कम्, 'येन सूर्यस्तपति तेजसेद्ध:' ' तं देवा ज्योतिषां ज्योति: '

'
न तत्र सूर्यो भाति न चन्द्रतारकम्' इत्यादिश्रुतेः ; ' यदा-
दित्यगतं तेज: ' इत्यादिस्मृतेश्च । परमं तपः तपति आज्ञा-
पयतीति तपः । 6
'य इमं च लोकं परं च लोकं सर्वाणि च
भूतानि योऽन्तरो यमयति' इत्यन्तर्यामिब्राह्मणे सर्वनि-
यन्तृत्वं श्रूयते । 'भीषास्माद्वातः पवते' इत्यादि तैत्तिरीयके ।
तपति ईष्टे इति वा तपः । तस्यैश्वर्यमनवच्छिन्नमिति मह-
त्त्वम्, 'एष सर्वेश्वरः' इत्यादिश्रुतेः । परमं सत्यादिलक्षणं
परं ब्रह्म महनीयतया महत् । परमं प्रकृष्टं पुनरावृत्तिशङ्काव-
र्जितम् । परायणं परम् अयनं परायणम् । परमग्रहणात् सर्वत्र