This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
जीवपरयोरेकत्वमुक्तम् । तदसहमानश्चोदयति धृतराष्ट्र:-
धृतराष्ट्र उवाच-
कोऽसौ नियुङ्क्ते नमजं पुराणं
स चेदिदं सर्वमनुक्रमेण ।
किं वास्य कार्यमथवासुग्वं च
 
1
 
तन्मे विद्वन्ब्रूहि सर्व यथावत् ॥ १९ ॥
ननु यदि स एव सत्यादिलक्षण: परमात्मा क्रमेणाकाशा-
दि धरित्र्यन्तं जगत्सृष्ट्वा तद्नुप्रविश्यान्नमयाद्यात्मना अवस्थि-
तः संसरति चेत्, कोऽसौ तं सत्यादिलक्षणं पुराणमजं संसारे
नियुङ्के प्रेरयति । किमन्येन, स्वयमेवेति चेत्, कि वास्य ना-
नायोनिषु वर्तमानस्य कार्य प्रयोजनम् । अथवा, नानायोनि-
?
ध्वप्रवर्तमानस्य तूष्णीभूतस्य स्वे महिनि व्यवस्थितस्य संसा
राननुप्रवेशे असुखम् अनर्थजातं वा कि भवति? हे विद्वन,
मे ब्रूहि सर्वं यथावत् । तथा च ब्रह्मविदामेकः पुण्डरीको भ-
गवान्याज्ञवल्क्यः तत एव सर्वस्य सृष्टिमुक्त्वा तस्यैव जीव-
त्वमभ्युपगम्य —'यद्येवं स कथं ब्रह्म पापयोनिषु जायते ।
स ईश्वरः कथं भावैरनिष्ठैः संप्रयुज्यते' इति । 'कोऽसौ नियु-
ङ्के' इत्यनेन भगवतोक्तमेव ब्रह्मजीववादपक्षे वावदूकचोद्यं
स्पष्टमुक्तवान् ॥