This page has not been fully proofread.

२०४
 
सनत्सु जातीयभाप्ये
 
च अमार्गान् संसारहेतुभूतानात्मनो विरुद्धमार्गान् धर्माधर्मो-
पासनारूपान् । अथवा, 'एवं हि विद्वान्परियाति तत्र'
इति पाठे सगुणं ब्रह्म विद्वान तत्र ब्रह्मलोकादावुपासनफलं
परियाति प्राप्नोति । तथा अर्थजातं च अस्य वदन्ति वेदाः ।
कीदृशं वदन्ति ? स नेहायाति स विद्वानिह अस्मिन् लोके
कर्मिवन्नायाति न जायते, किंतु ब्रह्मोपासनया अमार्गान
विरुद्धमार्गान् निहन्ति । एवं तत्र गत्वा संसारहेतूनमार्गान्नि-
हत्य परात्मा सन कालेन परं ब्रह्म प्रयातीत्यर्थः ॥
 
एवं तावत्प्रमादाख्यम्याज्ञानस्य मृत्युत्वम् अप्रमादस्य
स्वरूपावस्थानलक्ष्णस्यामृतत्वम् ' प्रमादं वै मृत्युमहं ब्रवीमि'
इत्यादिना दर्शयित्वा 'आस्यादेष निःसरते' इत्यादिना 'म
वै मृत्युस्त्वच्छरीरे य एष: ' इत्यन्तेन तस्यैव कार्यात्मना
परिणतस्य सर्वानर्थहेतुत्वं दर्शयित्वा, कथमस्य मृत्योर्विनाश
इत्याशङ्कच, 'एवं मृत्युं जायमानं विदित्वा ज्ञानेन तिष्ठन्न
बिभेति मृत्योः' इत्यात्मज्ञानेन मृत्युविनाशं दर्शयित्वा,
'यानेवाहुरिज्यया' इत्यादिना ब्रह्मलोकादेः पुरुषार्थत्वमाश
मय, 'एवं ह्यविद्वान' इत्यादिना तेषामविद्यावद्विषयत्वेना-
पुरुषार्थत्वमुक्त्वा, 'परं परात्मा प्रयाति मार्गेण' इति ज्ञान-
मार्गेण मोक्षः उपदिष्टः । तत्र 'परं परात्मा प्रयाति' इति