This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
ब्रह्मलोकपर्यन्तानां लोकानां साधनभूतं कर्म विद्वान ब्रह्मवित्
 
कथं नैति न गच्छति ॥
 
एवं पृष्टः प्राह भगवान-
सनत्सुजात उवाच-
२०३
 
एवं ह्यविद्वान्परियानि तत्र
तथार्थजानं च वदन्ति वेदाः ।
स नेहायाति परं परात्मा
 
प्रयाति मार्गेण निहन्त्यमार्गान् ॥ १८ ॥
 
सत्यम् एवं ब्रह्मलोकादिसाध्यं सुखं मन्यमानो विषयवि
षान्धो ह्यविद्वान् परियाति तत्र तस्मिन् ब्रह्मलोकादिसाधन-
भूते कर्मणि न विद्वान ; अविद्यादिदोषदर्शनात् । तथा च
बृहदारण्यके— 'अनन्दा नाम ते लोका अन्धेन तमसा-
वृताः । तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधा जनाः' इति ।
तथा अर्थजातं प्रयोजनजातं च तस्यैव अविदुषो वदन्ति
वेदाः । यस्मादविदुष एव वदन्ति न विदुषः, तस्मात् नेह
सः विद्वान् ब्रह्मलोकाद्यनित्यसुखे तत्साधने वा कर्मणि
आयाति प्रवर्तते । किं तर्हि करोति ? परमात्मानमात्मत्वेनाव-
गम्य परात्मा सन् ब्रह्मैव सन् परं प्रयाति । मार्गेण निहन्ति