This page has not been fully proofread.

२०२
 
सनत्सुजातीयभाप्ये
 
अभिभूतो नष्टो भवति मर्त्यः एवमात्मवेदिनो विषयमागतो-
ऽज्ञान मृत्युर्नष्टो भवति । उक्तं च नाममहोदधौ– 'ज्ञानसं-
स्थानसद्भावो ज्ञानाग्निर्ज्ञानवज्रभृत् । मृत्युहन्तेति विख्यातः
स वीरो वीतमत्सरः' इति ॥
 
एवं तावत् 'कर्मोदये' इत्यादिना कर्मणां बन्धहेतुत्वमु
क्त्वा 'ज्ञानेन तिष्ठन्न बिभेति मृत्योः' इति ज्ञानस्यैव मोक्ष-
साधनत्वमभिहितम् । तत्र चोदयति धृतराष्ट्र:-
धृतराष्ट्र डावच -
 
6
 
यानेवाहुरिज्यया साधुलोका-
न्द्विजातीनां पुण्यतमान्सनातनान् ।
तेषां परार्थ कथयन्तीह वेदा
एतद्विान्नेनि कथं नु कर्म ॥ १७ ॥
 
ननु कथं कर्मणां बन्धहेतुत्वम् ? यावता यानेवाहुरिज्यया
ज्योतिष्टोमादिना साधुलोकान् साधुभिः धार्मिक रूढान्
पुण्यतमान् पवित्रान् सनातनान् । तेषां ब्रह्मलोकपर्यन्तानां
लोकानां परार्थ परमपुरुषार्थत्वं कथयन्ति इह अस्मिन्
संसारमण्डले वेदाः । एतत् लोकानां परमपुरुषार्थत्वं विद्वान्
कथं नु साधनं कर्म नैति नानुतिष्ठति । अथवा, एतत्