This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
भयान्तरात्मा इति । क्रोधलोभाभ्यां हेतुभ्यां मोहभयसम-
न्वितः अन्तरात्मा त्वच्छरीरे य एष तवात्मा दृश्यते स एव
तव मृत्युः । यस्तु पुनः अजितेन्द्रियः क्रोधलोभादिसमन्वितो
विषयेषु प्रवर्तते स एव तस्य मृत्युः विनाशहेतुत्वान् । उक्तं
च— 'आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः' इति ।
केन तर्छुपायेन मृत्योर्वनाश इत्याह-
एवं मृत्युं जायमानं विदित्वा
ज्ञानेन तिष्ठन्न बिभेति मृत्योः ।
विनश्यते विषये यत्र मृत्यु -
मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ १६ ॥
 

 
-
 
एवं क्रोधादिरूपेण जायमानं प्रमादाख्यं मृत्युं जननमर-
णादिसर्वानर्थबीजं विदित्वा क्रोधादीन भूतदाहीयान दोषान्
परित्यज्य अक्रोधादीन संपाद्य ज्ञानेन चित्सदानन्दाद्वितीय-
ब्रह्मात्मना तिष्ठन्न विभेति मृत्योः । तथा च श्रुतिः - आन-
न्दं ब्रह्मणो विद्वान, न विभेति कुतश्चन इति । कस्मात्पुन -
र्ज्ञानेन तिष्टन्न बिभेति मृत्योरिति ? तवाह
- विनश्यते तस्य
ज्ञानिनो विषये गोचरे परमात्मनि साक्षात्क्रियमाणे प्रमादा-
ख्योऽज्ञानमृत्युः । यथा मृत्योः विषयं संसारमागतो मृत्युना