This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
कमनीयबुद्धया गृध्यन्तः अभिकाङ्क्षन्त एव धावन्ति अनुधा-
वन्ति । गच्छन्तः श्वभ्रमुन्मुखाः यथा अन्धा: कूपादिकं
विवेक्तुमशक्ताः कूपादिपून्मुखाः पतन्ति एवं स्त्र्यादिकम-
भिकाङ्क्षन्तो विषयविषान्धा: उन्मुखाः नरकेष्वेव पतन्ती-
त्यर्थः ॥
 
4
 
य एवं गृध्यन्त एव धावन्ति तेषां देहो निरर्थक इत्याह-
अमन्यमानः क्षत्रिय कश्चिदन्यं
नाधीयते तार्ण इवास्य व्याघ्रः ।
क्रोधाल्लोभान्मोहभयान्तरात्मा
 
सवै मृत्युस्त्वच्छरीरे य एषः ॥ १५ ॥
 
यः स्त्र्यादिकमभिकाङ्क्षन् अनुधावति स विषयविषान्धः
तद्व्यतिरिक्तं स्वात्मभूतं परमात्मानम् अमन्यमानः अप्रतिबुध्य-
मान: नाधीयते तद्विषयमध्यात्मशास्त्रं नाधिगच्छति । तस्य
अस्य विषयविषान्धस्य षडङ्गवेदविदुषोऽपि देहस्तृणनिर्मितो
व्याघ्र इव निरर्थको भवति । तथा चाह भगवान्वसिष्ठः-
'चतुर्वेद्यपि यो विप्रः सूक्ष्मं ब्रह्म न विन्दति । वेदभारभरा-
क्रान्तः स वै ब्राह्मणगर्दभः' इति । न केवलं देहो निरर्थकः,
य एवंभूतः स एव तस्य मृत्युरित्याह – क्रोधाल्लोभान्मोह-
-
 
-