This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
१९९
 
कामानुसारी पुरुषः कामाननु विनश्यति ।
कामान्त्र्युस्य धुनुते यत्किंचित्पुरुषो रजः ॥
यस्तु पुनर्विषयाभिध्यानेन कामानुसारी भवति स कामा-
ननु विनश्यति कामविषये नष्टे कामाननु कामैः सह विन-
श्यति, अनित्याः कामगुणा: प्रतिक्षणं विनाशान्विताः, तद्व-
त्कामी विशीर्णो भवति । यस्तु पुनर्विषयदोषदर्शनेन कामा-
न्परित्यजति स कामान्व्युदस्य परित्यज्य धुनुते विवेकबुद्धधा
ध्वंसयति यत्किचित् इह जन्मनि जन्मान्तरे वा उपार्जितं
रज: पुण्यपापादिलक्षणं कर्म ।
 
कथं पुनरस्य देहस्य काम्यमानस्य हेयत्वमित्याशङ्कयाह-
देहोऽप्रकाशो भूतानां नरकोऽयं दृश्यते ।
गृध्यन्त एव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥
यः अयं भूतानां देहो दृश्यते सः अप्रकाशः तमोऽचिद्वनः
केवलं नरकः इलेष्मासृक्पूयक्रिमिविण्सूत्रपरिपूर्णत्वात् । त
चाह भगवान्मनु:- 'अस्थिस्थूणं स्नायुबद्धं मांसशोणित-
वेष्टितम् । चर्मापिनद्धं दुर्गन्धि पूर्ण मूत्रपुरीषयोः ॥ जराशो-
कसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावा-
समिमं यजेत्' इति । एवमत्यन्तबीभत्सितमपि स्त्र्यादिदेहं
 
-