This page has not been fully proofread.

१९८
 
सनत्सुजातीयभाप्ये
 
स्ते मृत्योर्यन्ति विततम्य पाशम् । अथ धीरा अमृतत्वं विदि
त्वा ध्रुवमध्रुवेष्विह् न प्रार्थयन्ते' इति । धीरास्तु पुनः धैर्येण
विषयान् जित्वा परमात्मानमात्मत्वेनावगम्य तरन्ति मृत्युम ।
श्रूयते च – 'निचाय्य तं मृत्युमुखात्प्रमुच्यते' इति ॥
कथं पुनर्धीरास्तु धैर्येण विषयान जित्वा मृत्युं तरन्तीत्याह-
योऽभिध्यायन्नुत्पतिष्णून्निहन्या-
दनाचारेणाप्रतिबुध्यमानः ।
स वै मृत्युं मृत्युरिवात्ति भूत्वा
 
ह्येवं विद्वान्योऽभिहन्तीह कामान् ॥
 
योऽभिध्यायन् अनित्याशुचिदु:खानुविद्धतया चिन्तयन्
उत्पतिष्णून् उत्पत्योत्पत्य पतन्तीत्युत्पतनशीला उत्पतिष्णवो
विषयाः तान् निहन्यात् परित्यजेत् अनाचारेण अनादरेण
औदासीन्येनामेध्यदर्शन इव अप्रतिबुध्यमानः पुनरचिन्त-
यन् स वै पुरुषो मृत्योरपि मृत्युर्भूत्वा मृत्युरिवात्ति मृत्युम् ।
उक्तं च- ' विषयप्रतिसंहारं यः करोति विवेकतः । मृत्यो-
मृत्युरिति ख्यातः स विद्वानात्मवित्कविः' इति ॥
 
एवमनित्यादिरूपेण विद्वाननादरादिना अभिहन्ति का-
मान् । यस्तु पुनरनादरादिना नाभिहन्ति स किं करोतीत्याह-