This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
स्रोऽत्याय मायंस्तानीमानि वयांसि वङ्गावराधाचेरपादाः' इति ।
वक्ष्यति च-- 'कामानुसारी पुरुषः कामाननु विनश्यति
इति । कस्मात्पुनः मिथ्यार्थयोगेऽस्य गतिर्हि निया इति ?
तत्राह् – मिथ्यार्थयोगाभिह्तान्तरात्मा इति । मिथ्याभृत-
विषयसंयोगेन अभिहतान्तरात्मा अभिहतस्वाभाविकब्रह्मात्म-
भावः स्मरन स्त्र्यादिविषयान तानेव उपास्ते, न परमात्मानं
समन्तात् समन्ततः ॥
 
ततः किमिति चेत् तत्र यद्भवति तत् शृणु-
·
 
अभिध्या वै प्रथमं हन्ति चैनं
कामक्रोधौ गृह्य चैनं तु पश्चात् ।
ते बालान्मृत्यवे प्रापयन्ति
 
धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ ११ ॥
 
अभिध्या विषयाभिध्यानं प्रथमं हन्ति विनाशयति स्वरूपा-
त्प्रच्युतिं करोति । ततो विषयध्यानाभिहतम् एनं विषयसं-
निधौ शीघ्रं प्रगृह्य कामञ्च हन्ति, ततः कामाभिहतमेनं प्रगृह्य
क्रोधच हन्ति । तत एते अभिध्यादयः तानभिध्याकामक्रोधव-
शं गतान् बालान विवेकहीनान्मूढान मृत्यवे प्रापयन्ति प्रक्षिप-
न्ति । श्रूयते च कठवल्लीषु– 'पराचः कामाननुयन्ति बाला-