This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
मिथ्यार्थयोगाभिहतान्तरात्मा
स्मरन्नुपास्ते विषयान्समन्तात् ॥
 
यद्रागाभिभूतस्य इन्द्रियाणां विषयेषु वर्तनं तत् महामो-
हनम् । एतदुक्तं भवति - यस्य विषयेषु अवास्तवबुद्धि: तस्ये
न्द्रियाणि विषयेषु न प्रवर्तन्ते । तस्य विषयेषु प्रवृत्त्यभावात्
प्रत्यगात्मन्येव प्रवृत्तिः, ततश्च मोहननिवृत्तिः । यस्य विष-
येषु वास्तवबुद्धिः तस्येन्द्रियाणां पराग्भूतेषु विषयेषु प्रवृत्त-
त्वात् न स इमं सद्वितीयं प्रत्यग्भूतं परमात्मानमात्मत्वेन
साक्षाज्जानाति । तथा चोक्तम्– 'स्त्रीपिण्डसंपर्ककलुषीकृतचे-
तसो विषयविपान्धा ब्रह्म न जानन्ति' इति । ततश्च महा-
मोहनं पुनः पुनः विषयेषु प्रवृत्तिः । तथा चाह भगवा-
'न जातु काम: कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवमेव भूय एवाभिवर्धते' इति । ततश्च
मिथ्यार्थैरविद्यापरिकल्पितैः शब्दादिविषयैः योगो भवति :
तस्मिन् मिथ्यार्थयोगे अस्य देहिनो गतिः संसारगतिः नित्या
नियता । प्रसिद्धं ह्येतत् – स्वात्मभूतं परमात्मानमनवगम्य
विषयेषु प्रवर्तमाना: पराग्भूतास्तिर्यगादियोनिं प्राप्नुवन्तीति ।
तथा च बह्वचब्राह्मणोपनिषत् - 'या वै ता इमाः प्रजास्ति-
न्मनु:-
-