2022-08-19 20:19:18 by epicfaace
This page has been fully proofread once and needs a second look.
त्वात्, भूतं परमार्थसत्यम्, सर्वभूतभवोद्भवं सर्वभूतानां
भवः संसारः यत्सकाशादुद्भवति तम् ॥
पञ्चमं प्रश्नं परिहरति--
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ ८ ॥
सर्वेषां चोदनालक्षणानां धर्माणाम् एषः वक्ष्यमाणो धर्मः
अधिकतमः इति मे मम मतः अभिप्रेतः, यद्भक्त्या तात्पर्येण
पुण्डरीकाक्षं हृदयपुण्डरीके प्रकाशमानं वासुदेवं स्तवैः गुण-
संकीर्तनलक्षणैः स्तुतिभिः सदा अर्चेत् सत्कारपूर्वकमर्चनं
करोति नरः मनुष्यः इति यत् एष धर्मः इति संबन्धः ॥
उच्यते -- हिंसादिपुरुषान्तरद्रव्यान्तरदेशकालादिनियमान-
पेक्षत्वम् आधिक्ये कारणम्। 'ध्यायन्कृते यजन्यज्ञैत्रेतायां
द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम्
इति विष्णुपुराणवचनात् । 'जप्येनैव तु संसिध्येद्
नात्र संशय: । कुर्यादन्यन्न वा कुर्यान्मैत्रो
नात्र संशय: । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते'