This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
सदर्थयोगानवगमात्समन्ता-
त्प्रवर्तते भोगयोगेन देही ॥ ९ ॥
 
१९५
 
अमृत्युः
 
कर्मणा केचित् इति कर्मणा अमृतत्वं भवतीति
यन्मतान्तरमुपन्यस्तम्, तन्निराकरोति – न केवलं कर्मणा
अमृतत्वं भवति, अपि तु कर्मोदये कर्मणामुत्पत्तौ कर्मफला-
नुरागाः सन्तः तत्र तस्मिन्कर्मफले अनुयान्ति । यस्मात्तत्रै-
वानुयान्ति, अतो न तरन्ति मृत्युं पुनः पुनः जननमरणा-
त्मके संसारे परिवर्तन्त इत्यर्थः । कस्मात्पुनः कर्मोदये कर्म-
फलानुरागाः तत्रैव परिवर्तन्ते ? सदर्थयोगानवगमान् सद्र्थेन
योगः सदर्थयोगः परमात्मना योगः तस्य सदर्थयोगस्य एक-
त्वस्य अनवगमात् स्वात्मनश्चिदानन्दाद्वितीयब्रह्मभावानवग-
मादित्यर्थः । समन्तात् समन्ततः प्रवर्तते भोगयोगेन विषय-
रसबुद्धया देही । यथा ह्यन्धो निम्नोन्नतकण्टकस्थलादिपु
परिभ्रमति एवमसावपि विवेकहीनः सर्वत्र विषयसुखाका-
क्षया परिभ्रमति ॥
 
किंच-
त महामोहनमिन्द्रियाणां
 
मिथ्यार्थयोगेऽस्य गतिर्हि नित्या ।