This page has not been fully proofread.

१९४
 
सनत्लुजातीयभाप्ये
 
तेन अहंकारादिरूपेण परिणताज्ञानेन ते मोहिता: देहादि-
ध्वात्मभावमापादिताः तद्वशे अहंकाराद्यात्मना परिणतप्रमादा-
ख्यमृत्युवशे वर्तमाना इतः अस्मान् प्रेता धूमादिमार्गेण गत्वा
तत्र परलोके यावत्संपातमुषित्वा पुनः आकाशवायुवृष्टिसस्यान्न
शुक्कुशोणितादिक्रमेण देहग्रहणाय पतन्ति निपतन्ति । श्रूयते
च— 'तस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते'
इति । ततः अनन्तरं पुन: देहग्रहणावस्थायां तं देवा इन्द्रि-
याणि अनुसृत्य कर्माणि परि समन्तात् प्लवन्ते समन्ततः
परिवर्तन्त इत्यर्थः । अतः अस्मात्कारणादिन्द्रियगुणानुसरणात्
मृत्युं मरणं याति । ततो मरणान् जन्मान्तरम् अभ्युपैति ततो
मृत्युम् । एवं जननमरणप्रवन्धाधिरूढो न कदाचिद्विमुच्यत
इत्यर्थः । आत्माज्ञाननिमित्तत्वात्संसारस्य यावत् परमात्मान-
मात्मत्वेन साक्षान्न विजानाति तावदयं तापत्रयाभिभूतो
मकरादिभिरिव रागादिभिरितस्ततः समाकृष्यमाण: मोमुह्य-
मान: संसरन्नवतिष्ठत इत्यर्थः ॥
 
एवं तावदविद्याकामयोः बन्धहेतुत्वमभिहितम् । अथेदानीं
कर्मणां वन्धहेतुत्वमाह-
कर्मोदये कर्मफलानुरागा-
सत्रानुयान्ति न तरन्ति मृत्युम् ।