This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
ऋशोऽहं स्थूलोऽहम् अमुष्य पुत्रोऽस्य नमा' इत्येवमात्मको
रागद्वेषादिसमन्वितः चरन् विमार्गान श्रौतस्मार्तविपरीतमा-
र्गान् न चात्मनः परमात्मनो योगं समाधिलक्षणम् उपैति
किचिदपि । अथवा, अविद्याकामकर्माणि संसारस्य प्रयोजक-
भूतानि । पूर्वव मोहो मृत्युः संमतो यः इत्यनेनाग्रहणान्यथा-
ग्रहणात्मिका अविद्योक्ता: उत्तरत्र कर्मोदये इति कर्म वक्ष्य-
ति । अथेदानी कामोऽभिधीयते – अस्यन्ते क्षिप्यन्तेऽनेन
संसारे प्राणिन इत्याखः कामः । अथवा, आस्यवदास्यं सर्व-
जग्वृत्वात् । तथा चोक्तं भगवता- काम एष क्रोध एष:
इति । एष मृत्युराखात्मना कामात्मना स्थित्वा ततः क्रोधा-
6
 
त्मना परिणमते । उक्तं च- 'कामात्क्रोधोऽभिजायते
 
-
 
१९३
 
.
 
इति । ततः अहंगतेन अहंकारमा पन्नेनाज्ञानेन अहंकारमम-
कारफलकारूढेन चिदाभासेन चरन्विमार्गान्न चात्मनो योग-
मुपैति किचित् ॥
 
किंच-
ते मोहितास्तद्वशे वर्तमाना
इतः प्रेतास्तत्र पुनः पतन्ति ।
ततस्तं देवा अनु परिप्ठवन्ते
 
अतो मृत्युं मरणादभ्युपैति ॥ ८ ॥
 
S. M. B. 18