This page has not been fully proofread.

१९२
 
सनत्सुजातीयभाप्ये
 
कठवल्लीषु – 'कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति इति ।
किच, पितृलोके राज्यमनुशास्ति देवः । कथमनुशास्ति ?
शिवः सुखप्रदः शिवानां पुण्यकर्मणाम, अशिवः असुखप्रदः
अशिवानां पापकर्मणाम ॥
 
"
 
एवं तावत् 'प्रमादं वै मृत्युम्' इति मृत्योः स्वरूपं निर्धा-
रितम । अथेदानी तस्यैव कार्यात्मनावस्थानं दर्शयति-
आस्यादेष निःसरते नराणां
 
क्रोधः प्रमादो मोहरूपश्च मृत्युः ।
अहंगतेनैव चरन्विमार्गा-
न्न चात्मनो योगमुपैति किंचित् ॥ ७ ॥
 
यः प्रमादाख्यः अज्ञानमृत्यु स प्रथममायात्मना परिण-
मते । आस्यः अभिमानात्मकोऽहंकारः । तथा चोक्तम्–'स-
र्वार्थाक्षेपसंयोगादसुधातुसमन्वयात् । आस्य इत्युच्यते घोरो
ह्यहंकारो गुणो महान्' इति । एवमहंकारात्मना स्थित्वा ततो-
ऽहंकारात् निःसरते निर्गच्छति कामात्मना । ततः कामः
स्वविषये प्रवर्तमान प्रतिहतः क्रोधः प्रमादो मोहरूपश्च
भवति । ततः अहंगतेन अहंरूपमापन्नेनाहंकाराद्यात्मना अव-
स्थितेनाज्ञानेन तदात्मभावमापन्नः 'ब्राह्मणोऽहं क्षत्रियोऽहं