2022-09-09 02:55:09 by ambuda-bot
This page has not been fully proofread.
प्रथमोऽध्यायः ।
१९१
'अहमस्मि' इति ; न किंचिदन्यञ्चिन्तयेत् । तथा च श्रुतिः -
'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण: । नानुध्यायाद्र-
हूञ्शब्दान्वाचो विग्लापनं हि तन्' इति । तमेवैकं जान-
थात्मानमन्या वाचो विमुञ्चथ' इति । एतज्ज्ञेयं नित्यमे-
वात्मसंस्थं नातः परं वेदितव्यं हि किंचित' इति । तथा च
भगवान्वासुदेवः— 'संकल्पप्रभवान्कामांम्त्यक्त्वा सर्वानशे-
षतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ शनैः शनै-
रुपरमेद्धया धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न
किंचिदपि चिन्तयेत्' इति । एवं प्रसङ्गात्सर्वशास्त्रार्थः संक्षे-
पतः प्रदर्शितः ॥
अथेदानी प्रकृतमनुसरामः-
यस्मात्प्रमाद् एव सर्वा-
नर्थवीजं तस्मात्प्रमादं वे मृत्युमहं ब्रवीमि, न यमम् । यमं
तु पुनः एके विषयविषान्धा: अविद्यारूढाः स्वात्मव्यतिरेकेण
द्वितीयं पश्यन्तो मृत्युम् अतो मयोक्तान्मृत्योः प्रमादाख्यात्
अन्यं मृत्य्वन्तरं वैवस्वतम् आहुः आत्मावासम् आत्मनि
बुद्धौ वसतीत्यात्मावासः तम् । तथा चाह मनु:-
' यमो
वैवस्वतो राजा यस्तवेष हृदि स्थितः । तेन चे विवादस्ते मा
गङ्गां मा कुरून्गमः' इति । अमृतम अमरणधर्माणं ब्रह्म-
चर्य ब्रह्मणि म्वात्मभूते रममाणं ब्रह्मनिष्ठमित्यर्थः । श्रूयते
-