This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
6
 
त्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति' 'नि-
चाय्य तं मृत्युमुखात्प्रमुच्यते' इति । 'आनन्दं ब्रह्मणो
विद्वान, न विभेति कुतश्चन' इति । 'भिद्यते हृदयग्रन्थि-
ञ्छिद्यन्ते सर्वसंशया: । श्रीयन्ते चास्य कर्माणि तस्मिन्छष्टे
परावरे'। तथा चाह् भगवान् – अव्यक्तोऽयमचिन्त्योऽय-
मविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्ह-
सि' 'एतवा बुद्धिमान्स्यात्कृतकृत्यश्च भारत' इति । तथा
च कावषेयगीतासु - 'आत्मनः शोकसंतीर्णो न बिभेति
कुतश्चन । मृत्योः सकाशान्मरणाद्धवान्यकृताद्भयात् ॥ न
जायते न म्रियते न वध्यो न च घातकः । न वद्धो बद्ध-
कारी वा न मुक्तो न च मोक्षदः ॥ पुरुषः परमात्मायं यत्त-
तोऽन्यद्सच्च तत् । अज्ञानपाशे निर्भिन्ने च्छिन्ने महति संशये ॥
शुभाशुभे च संकीर्णे दग्धे बीजे च जन्मनाम् । प्रयाति
परमानन्दं तद्विष्णोः परमं पदम्' इति । तथा चाह भगवा-
न्मनुः— 'सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । तद्धचग्रं
सर्वविद्यानां प्राप्यते ह्यमृतं ततः 'एतद्धि जन्मसाफल्यं
ब्राह्मणस्य विशेषत: । प्राप्यैतत्कृतकृत्यो हि द्विजो भवति
नान्यथा' इति । यस्मात्तद्विज्ञानादेव परमपुरुषार्थप्राप्तिः, त-
स्मात्तमेव च परमात्मानं पूर्णानन्दमात्मत्वेन जानीयान
 
१९०