This page has not been fully proofread.

प्रथमोऽध्याय
 
त्मा व्यक्तसर्वपरिग्रहः ॥' कथं तर्हि / योगायनम शृणु -
समे देशे शर्करावह्निवालुकाशब्दजलाशयादिवर्जित मनो-
नुकूले शुचौ नात्युच्छ्रितं नातिनीचं चलाजिनकुशोत्तरं
स्थिरमासनं प्रतिष्ठाप्य, तत्रोपविश्यासनं स्वस्तिकं पद्मासनं
वा लब्ध्वा, समं कायशिरोग्रीवं धारयन विश्वादीन क्रमेण
कार्यकारणविनिर्मुक्ते पूर्णात्मनि उपसंहृय पूर्णात्मना स्थित्वा.
ध्यायत्पुरिशयं देवं पूर्णानन्दं निरञ्जनम अपूर्वमनपरं ब्रह्म
नेति नेत्यादिलक्षणम अशनायाद्यसंस्पृष्टमनुदितानस्तमितज्ञाना-
त्मनावस्थितं परमात्मानमोमिति । तथा चोक्तं ब्रह्माण्डपु-
राणे कावषेयगीतासु – 'तस्माद्विमोक्षाय कुरु प्रयत्नं दुःखा-
द्विमुक्तो भवितासि येन । ॐ ब्रह्म शून्यं परमं प्रधानमान-
न्दमात्रं प्रणवं जुषस्व' इति । एवं युञ्जन सदात्मानं परमा-
त्मत्वेन यदा साक्षाज्जानाति, तदा निरस्ताज्ञानतत्कार्यो वीत-
शोकः कृतकृत्यो भवति । तथा च बृहदारण्यके- 'आत्मानं
चेद्विजानीयायमस्मीति पूरुषः । किमिच्छन्कस्य कामाय
शरीरमनु संज्वरेत्' इति । तथा च ईशावास्ये– 'यस्मि-
न्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः
कः शोक एकत्वमनुपश्यतः इति । तथा च कठवल्लीषु -
 
'तं दुर्दशं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्या-
.
 
"