2022-09-09 02:55:09 by ambuda-bot
This page has not been fully proofread.
सनत्सुजातीयभाप्ये
योगी भवार्जुन' इति । 'स्वे स्वे कर्मण्यभिरतः संसिद्धि
लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य
सिद्धिं विन्दति मानवः इति । तथा चाह याज्ञवल्क्यः -
'तथाविपक्ककरण आत्मज्ञानस्य न क्षमः' इति । यस्मान
विशुद्धसत्त्वस्यैव नित्यानित्यविवेकद्वारेण मोक्षसाधनज्ञाननि
प्पत्तिः, तस्मात्सत्त्वशुद्धयर्थं सर्वेश्वरमुद्दिश्य सर्वाणि वाड्यन:-
कायलक्षणानि श्रौतस्मार्तानि कर्माणि समाचरेत् यावद्विशु-
द्धसत्त्व इहामुत्रफलभोगविरागो योगारूढो भवति । तथा
चाह भगवान - आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते
इति, 'संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः' इति ।
तस्य लक्षणमुक्तम् – 'यदा हि नेन्द्रियार्थेषु न कर्मस्वनुष-
जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते' इति ।
यस्तु पुनरेवं यज्ञदानादिना विशुद्धसत्त्व इहामुत्रफलभो-
गविरागो योगारूढो भवति, तस्य शम एवं कारणं न
कर्म । तथा चोक्तम् – 'योगारूढस्य तस्यैव शम: कार-
णमुच्यते' इति । यस्माद्योगारूढस्य शम एव कारणं न
कर्म, तस्माच्छमदमादिसाधनसंपन्नः श्रवणादिसमन्वित: 'यो-
गी युञ्जीत सततमात्मानं रहसि स्थितः । निराशीर्यतचित्ता-
१८८
.