This page has not been fully proofread.

प्रथयोऽध्यायः ।
 
याति तद्विष्णोः परमं पदम् ॥ गुरुभक्त्या च वृत्या च धर्म-
भक्त्या श्रुतेन च । विष्णुभक्त्या च सततं ज्ञानमुत्पद्यतेऽम-
लम् ॥ तस्माद्धर्मपरो भूत्वा वेदास्तिक्यसमन्वितः । कुर्वन्वै
नित्यकर्माणि यथाशक्ति स बुद्धिमान ॥ फलानि पर आसाद्य
वासुदेवे परात्मनि । शुद्धसत्त्वो भवत्येव योगारूढञ्च जायते
इति । वक्ष्यति च भगवान सनत्सुजातः शुद्धिद्वारेणैव मोक्ष-
साधनत्वम् – 'तदर्थमुक्तं तपसैव कर्मणा ताभ्यामसौ पुण्य-
मुपैति विद्वान । पुण्येन पापं विनिहत्य पञ्चात्स जायते ज्ञान-
विदीपितात्मा' 'ज्ञानेन चात्मानमुपैति विद्वान' इति । ननु
कथं सत्त्वशुद्धिद्वारेणैव मोक्षसाधनत्वम् ? विनापि सत्त्वशुद्धि
ज्ञानेनैव मोक्षः सिध्यत्येव । सत्यम् । ज्ञानेनैव मोक्षः सि-
ध्यति: किंतु तदेव ज्ञानं सत्त्वशुद्धिं विना नोत्पद्यत इति वयं
ब्रूमः
नः । तथा चोक्तम– 'ज्ञानमुत्पद्यते पुंसां यात्पापस्य
कर्मण: ' इति । तथा – 'अनेकजन्मसंसारचिते पापसमुच्चये ।
नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥ जन्मान्तर-
सहस्रेषु तपोध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे
भक्तिः प्रजायते' इति । तथा चोक्तं भगवता- 'अनेकजन्म-
संसिद्धस्ततो याति परां गतिम् । तपस्विभ्योऽधिको योगी
ज्ञानिभ्योऽपि मतोऽधिकः ॥ कर्मिभ्यश्चाधिको योगी तस्मा-