This page has not been fully proofread.

१८६
 
सनत्सुजातीयभाप्ये
 
इत्युक्ते समुच्चयाशङ्का मा भूदिति 'तपसा कल्मषं हन्ति विद्य-
यामृतमश्नुते इति तपसो नित्यनैमित्तिकलक्षणस्य कर्मणः
अन्तःकरणशुद्धावेव विनियोगं दर्शितवान । तथा 'ईशावा-
स्यमिदं सर्वम' इति सर्वस्य तावन्मात्रत्वमुक्त्वा तदात्मभू-
तस्य सर्वस्य तावन्मात्रत्वं पश्यतस्तदर्शनेनैव कृतार्थस्य सा-
ध्यान्तरमपश्यतः 'तेन त्यक्तेन भुञ्जीथाः इति त्यागेनैवा-
त्मपरिपालनमुक्त्वा अतदात्मवेदिनः केन तर्हि आत्मपरि-
पालनमित्याशङ्कयाह - 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं
समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे' इति ।
एवंभूते त्वयि नरमात्राभिमानिन्यज्ञे अविद्यानिमित्तोत्तरपू-
र्वाघयोरश्लेषविनाशाभावात् कुर्वन्नेव सदा यावज्जीवं कर्म
जिजीविषेदित्यज्ञस्य नरमात्राभिमानिनः शुद्धयर्थ यावज्जीवं
कर्माणि दर्शयति । अंत एभिरपि वाक्यैः शुद्धिसाधनत्वमेवा-
वगम्यते, न मोक्षसाधनत्वम् । यदप्युक्तम– 'तेनैति ब्रह्म-
वित्पुण्यकृत्तैजसश्च' इति च - शब्दात्समुच्चयोऽवगम्यते इति
तदपि प्रसिद्ध श्रुतिविनियोगानुसारेणैव योजयितव्यम् । तथा
च अनुगीतासु स्पष्टमाह भगवान कर्मणां शुद्धिद्वारेणैव मोक्ष-
साधनत्वम् – 'नित्यनैमित्तिकै: शुद्धैः फलसङ्गविवर्जितैः ।
सत्त्वशुद्धिमवाप्याथ योगारूढो भविष्यति ॥ योगारूढस्ततो