This page has not been fully proofread.


 
श्रीविष्णुसहस्रनाम-
तृतीयं प्रनं परिहरति त्रिभिरुत्तरैः पादै :-
-
 
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ||
 
.
 
अनादिनिधनं षड्भावविकारशून्यम्, विष्णुं व्यापकम्,
सर्वस्य लोक्यत इति लोक दृश्यवर्गो लोकः तस्य नियन्तृणां
ब्रह्मादीनामपि ईश्वरत्वात् सर्वलोकमहेश्वरम्, लोकं दृश्यवर्ग
स्वाभाविकेन बोधेन साक्षात्पश्यतीति लोकाध्यक्षः तं नित्यं
निरन्तरं स्तुवन्, सर्वदुःखातिगो भवेत् इति त्रयाणां साधा-
रणं फलवचनम् । सर्वाण्याध्यात्मिकादीनि दुःखान्यतीत्य
गच्छतीति सर्वदुःखातिग: भवेत् स्यात् ||
 

 
पुनरपि तमेव स्तुत्यं विशिष्टि-
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ ७ ॥
 
A
 
ब्रह्मण्यं ब्रह्मणे स्रष्ट्रे ब्राह्मणाय तपसे श्रुतये वा हितम्,
सर्वान् धर्मान् जानातीति सर्वधर्मज्ञः तम् लोकानां प्राणिनां
कीर्तयो यशांसि ताः स्वशक्त्यनुप्रवेशेन वर्धयतीति तम्,
लोकैर्नाध्यते याच्यते लोकानुपतपति आशास्ते लोकानामीष्टे