This page has not been fully proofread.

प्रथमाऽध्याय ।
 
-
 
.
 
च विमुच्यते' इति । सत्यम तथापि ईश्वरार्थतया फलनि-
रपेक्ष्मनुष्टीयमानानि न बन्धहेतूनि । तथा चोक्तं भगवता -
' यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थ कर्म
कौन्तेय मुक्तसङ्गः समाचर इति किमर्थं तर्हि तेषामनु-
ष्ठानम् ? सत्त्वशुद्धयर्थमिति ब्रूमः । तथा चोक्तं भगवता -
• कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म
कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये इति, यज्ञो दानं तपश्चैव
पावनानि मनीषिणाम् इति गतसङ्गस्य मुक्तस्य ज्ञाना-
वस्थितचेतसः । यज्ञायाचरतः कर्म समग्र प्रविलीयते' इति
च तथा च- 'कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः ।
कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते' इति । ननु कर्मणा-
मपि मोक्षहेतुत्वं श्रूयते– 'विद्यां चाविद्यां च यस्तद्वेोभयं
सह' इति 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः · इति
च । तथा च मनुः –'तपो विद्या च विप्रस्य निःश्रेयसकरे उभे '
इति। नैतन, पूर्वापराननुसंधाननिवन्धनोऽयं भ्रमः । तथा हि—
'विद्यां चाविद्यां च यस्तद्वेदोभयं सह ' इत्युक्त्वा 'अविद्यया
मृत्युं तीत्व विद्ययामृतमश्नुते' इति विद्याविद्ययोभिन्नविषय-
त्वेन समुच्चयाभावः श्रुत्यैव दर्शितः । इसमेवार्थ स्पष्टयन् भग-
वान्मनु:-
'तपो विद्या च विप्रस्य निःश्रेयसकरे उभे'
 
१८५
 
.