This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
च बह्वचब्राह्मणोपनिषत् - 'किमर्थं वयमध्येष्यामहे' इति ।
तथा च वृहदारण्यके विदुषः कर्मसंन्यासं दर्शयति - एतद्ध
स्म वैतत्पूर्वे विद्वांसः प्र॒जां न कामयन्ते कि प्रजया करि-
घ्यामो येषां नोऽयमात्मायं लोक इति ते ह स्म पुत्रेषणायाश्च
वित्तैपणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति
इति । तथा लैङ्गे– 'ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य यो-
गिनः । नैवास्ति किचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् '
इति । तथा च आथर्वणी श्रुतिः - 'नैतद्विद्वानृषिणा विधेये
न रुन्ध्यते विधिना शब्दकार: ' इति । केन तर्ह्यनुष्ठेयानि ?
अज्ञानिना आरुरुक्षुणा सर्वकर्माणि सर्वदा अनुष्टेयानि;
न ज्ञानिना । तथा चाह भगवान्— 'लोकेऽस्मिन्द्विविधा
निष्ठा पुरा प्रोक्ता मयानव । ज्ञानयोगेन सांख्यानां कर्मयो-
गेन योगिनाम्' इति 'आरुरुक्षोर्मुनेर्योगं कर्म कारणसुच्यते ।
योगारूढस्य तस्यैव शम: कारणमुच्यते' इति च । तथा
चाह भगवान्सत्यवतीसुत: – 'द्वाविमावथ पन्थानौ यत्र
वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तौ च व्यव-
स्थित: ' इति ॥
 
१८४
 
नन्वेवमारुरुक्षूणामपि कर्माणि नानुष्ठेयानि, कर्मणां
बन्धहेतुत्वात् । तथा चोक्तम्- 'कमर्णा बध्यते जन्तुविद्यया