This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
१८३
 
च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः '
इति । 'ज्ञानं विशिष्टं न तथा हि यज्ञा ज्ञानेन दुर्ग तरते न
यज्ञैः' इति च । तथा च ज्ञानस्यैव मोक्षसाधनत्वं मन्यमानः
सर्वकर्मपरित्यागमाह भगवान वेदाचार्यो मनुः – 'यथोक्ता-
न्यपि कर्माणि परिहाप्य द्विजोत्तमः । आत्मज्ञाने शमे च
स्याद्वेदाभ्यासे च यत्नवान' इति । तथाह भगवान्परमेश्वरः-
'ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम । तस्माद्भवद्भिर्विमलं
ज्ञानं कैवल्यसाधनम् ॥ विज्ञातव्यं प्रयत्नेन श्रोतव्यं दृश्यमेव
च । एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः ॥ आनन्दो
निर्मला नित्यः स्यादेतत्सांख्यदर्शनम् । एतदेव परं ज्ञानमेत-
न्मोक्षोऽनुगीयते ॥ एतत्कैवल्यममलं ब्रह्मभावश्च वर्णितः ।
आश्रियैतत्परं तत्त्वं तन्निष्ठास्तत्परायणाः ॥ गच्छन्ति मां म-
हात्मानो यतयो वीतमत्सराः' इति । ननु एवं चेत्तर्हि कर्माणि
नानुष्ठेयानि ? न नानुष्ठेयानि, किंतु ज्ञानिना अननुष्ठेयान्येव ।
तथा चाह भगवान्वासुदेवः– 'यस्त्वात्मरतिरेव स्यादात्मतृ-
तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते '
इति । तथा च ब्रह्माण्डपुराणे कावषेयाः– 'किमद्य नश्चा-
ध्ययनेन कार्य किमर्थवन्तश्च मखैर्यजामः । प्राणं हि वाप्य-
नले जोहवीम: प्राणानले जुहवीमीति वाचम्' इति । तथा