This page has not been fully proofread.

१८२
 
सनत्सुजातीयभाप्ये
 
3
 
--
 
विनष्ट्रिः ' इति । बृहदारण्यके प्रमादाख्यस्याज्ञानस्य साक्षा-
न्मृत्युत्वं दर्शितम —'मृत्युर्वै तमो ज्योतिरमृतम' इति । य-
स्मात्प्रमाद एव साक्षात्सर्वानर्थबीजम, तस्मान्न प्रमाद्येत चि-
त्सदानन्दाद्वितीयब्रह्मभावेनावतिष्टेत इत्यर्थः । तथा चाज्ञानस्य
बन्धहेतुत्वं विज्ञानस्य मोक्षहेतुत्वमुक्तं भगवता – अज्ञानेना-
वृतं ज्ञानं तेन मुह्यन्ति जन्तवः' इति । यस्मात्प्रमाद् एव मृ-
त्युः अप्रमादोऽमृतत्वम् अत एव न कर्मसाध्यं नापि कर्म-
प्राप्यम् ; नित्यसिद्धत्वात्, नित्यप्राप्रत्वाच्च । तथा च श्रुति:-
• एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीया-
न । तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापके-
न' इति । तथा – 'तमेव विदित्वाति मृत्युमेति नान्यः पन्था
विद्यतेऽयनाय' 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण:
इति ज्ञानस्यैव मोक्षसाधनत्वं दर्शितम् । तथा – 'न चक्षुषा
गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन
विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः' इति ।
वक्ष्यति च भगवान् ज्ञानस्यैव मोक्षसाधनत्वम्– 'अन्तवन्तः
क्षत्रिय ते जयन्ति लोकाञ्जना: कर्मणा निर्मितेन' इति,
· एवं मृत्युं जायमानं विदित्वा ज्ञानेन तिष्ठन्न बिभेति मृत्योः
इति च । तथा च मोक्षधर्मे– 'कर्मणा बध्यते जन्तुर्विद्यया
 
-
 
"