This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
१८१
 
मता: ' इति । ते अप्रमादान स्वाभाविकत्रह्मात्मना अवस्था-
नात् ब्रह्मभूताः निवृत्तमिथ्याज्ञानतत्कार्या: ब्रह्मैव संवृत्ता
इत्यर्थः ॥
 
नन्वन्य एव सर्वजन्तूनामुपसंहारको मृत्युः प्रसिद्ध क
थमुच्यते 'प्रमादं वै मृत्युमहं ब्रवीमि इति ? तत्राह्—न वै
मृत्युरिति । न वै मृत्यु इव अत्ति भक्षयति प्राणिनः ।
 
यदि भक्षयेन् व्याघ्रस्येव अन्य रूपमुपलभ्येतः न च उपल-
भ्यते । तस्मान्नास्त्येव मृत्युः ॥
 
ननूपलभ्यते सावित्र्युपाख्याने – 'अथ सत्यवतः काया-
त्पाशवद्धं वशं गतम् । अङ्गुष्टमावं पुरुषं निश्चकर्ष यमो व-
लात्' इति । कथमुच्यते नास्य रूपमुपलभ्यत इति ? तत्राह् -
यमं त्वेके मृत्युमतोऽन्यमाहु-
रात्मावासममृतं ब्रह्मचर्यम् ।
पितृलोके राज्यमनुशास्ति देवः
 
शिवः शिवानामशिवोऽशिवानाम् ॥
सत्यमुपलभ्यते; तथापि नासौ साक्षान्मृत्युः । कस्तर्हि ?
यः प्रमादाख्यो मृत्युः अज्ञानं स एव साक्षाद्विनाशहेतुत्वान् ।
तथा अज्ञानस्य विनाशहेतुत्वं श्रूयते 'न चेदिहावेदीन्महती