2022-09-09 02:55:07 by ambuda-bot
This page has not been fully proofread.
१७८
सनत्सुजातीयभाप्ये
अपरे पुनरद्वितीयात्मदर्शिनः आत्मव्यतिरेकेण द्वितीयम-
पश्यन्तो मृत्युर्नास्तीति वर्णयन्ति हे राजनः यथा एतत्प-
क्षयोरविरोधः संभवति, तथा त्रुवतो मे मम वाक्यं शृणु
मा विशङ्किथाः मयोक्तेऽर्थे शङ्कां मा कृथाः ॥
कथम ? -
उभे सत्ये क्षत्रियायप्रवृत्ते
मोहो मृत्युः संमतो यः कवीनाम् ।
प्रमादं वै मृत्युमहं ब्रवीमि
सदाप्रमादममृतत्वं ब्रवीमि ॥ ४ ॥
ये पूर्वोक्ते मृत्योरस्तित्वनास्तित्वे ते उभे हे क्षत्रिय, आद्य-
प्रवृत्ते य आदिसर्गस्तमारभ्य प्रवृत्ते । अथवा, क्षत्रियाय
क्षत्रियप्रधान, प्रवृत्ते वर्तमाने । कथं पुनरुभयोः परस्परवि-
रुद्धयोः अस्तित्वनास्तित्वयोः सत्यत्वमिति ? तत्राह — मोहो
मृत्युः
संमतो यः कवीनाम् इति । भवेदयं विरोधः अस्तित्व
नास्तित्वयोः, यदि परमार्थरूपो मृत्यु: स्यात् । कस्तर्हि
मृत्युः ? यो मोहो मिथ्याज्ञानम् अनात्मन्यात्माभिमानः, स
मृत्युः केषांचित् कवीनां मतः; अहं तु न तथा मृत्युं ब्रवीमि ।
कथं तर्हि ? प्रमादं वै मृत्युम् अहं ब्रवीमि । प्रमाद: प्रच्युतिः