This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
१७७
 
ब्रह्मचर्यमूषतुः' इत्यन्तेनेन्द्रविरोचनयोः प्रजापतो ब्रह्मचर्य-
चरणम् 'एकशतं ह वै वर्षाणि मघवा प्रजापतौ ब्रह्मचर्यमुवास
इति च । यदि मृत्युर्नास्तीति तव पक्षः, कथं तर्हि देवासुराणा-
ममृत्यवे ब्रह्मचर्यचरणम्; तत् तयोर्मृत्युसद्भावासद्भावपक्षयोः
कतरन्नु सत्यम्, यत्सत्यं तद्वक्तुमर्हसीत्यभिप्रायः ॥
 
श्रीसनत्सुजात उवाच-
अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे ।
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥
 
एवं पृष्टः प्राह भगवान सनत्सुजात:- केचित् पुनर
विद्याधिरूढाः परमार्थतो मृत्युसद्भावं मन्यमानाः वेदोक्तेन
कर्मणा अमृत्युः अमृतत्वं भवतीति मत्वा अमृत्यवे अमृत-
त्वप्रातये वेदोक्तं कर्माचरन्ति; तथा अन्ये विषयविषान्धाः
विषयव्यतिरेकेण निर्विषयं मोक्षममन्यमानाः कर्मणैव अमृत्युम
अमरणत्वं देवादिभावं वर्णयन्ति ; तत्रैव च रागिगीतं श्लोक-
दाहरन्ति — 'अपि बृन्दावने शून्ये सृगालत्वं स इच्छतु । न
तु निर्विषयं मोक्षं कदाचिदपि गौतम इति । तथैव च पर-
मात्मव्यतिरेकेण द्वितीयमपश्यन्तो ज्ञानकर्मभ्याममृतत्वं वर्ण-
यन्ति ।
 
S. M. B 12
 
"