This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
ईरितम् उक्तं यन् वाक्यं तत् संपूज्य संमान्य सनत्सुजातं
सनदिति सनातनं ब्रह्मोच्यते हिरण्यगर्भाख्यम्, तस्मात्स-
नातनात् ब्रह्मणो मानसान् ज्ञानवैराग्यादिसमन्वितः सुष्टु
जात इति सनत्सुजातः इत्युक्तो भगवान् सनत्कुमार :; तं
रहिते रहसि प्राकृतजनवजिते देशे महात्मा महाबुद्धि:
पप्रच्छ पृष्टवान् बुद्धिं परमाम् उत्तमां पूर्णानन्दाद्वितीयविष-
याम् । किमर्थम् ? बुभूषन् भवितुमिच्छन्, ब्रह्मविद्यया अप-
इतमात्मानं लव्धुमिच्छन्नित्यर्थः ॥
 
धृतराष्ट्र उवाच -
 
सनत्सुजात यदिदं शृणोमि
मृत्युर्हि नास्तीति तवोपदेशम् ।
देवासुरा आचरन्ब्रह्मचर्य-
ममृत्यवे तत्कतरन्नु सत्यम् ॥ २ ॥
 
हे सनत्सुजात, यत् मृत्युर्हि नास्तीति शिष्यान्प्रति उप-
दिष्टमिति विदुरः प्राह, देवासुराः पुनः अमृत्यवे मृत्योर-
भावाय अमृतत्वप्राप्तये ब्रह्मचर्यमाचरन् इन्द्रविरोचनादयः
गुरौ वासं कृतवन्तः । श्रूयते च च्छान्दोग्ये – 'तद्धोभये देवा
असुरा अनुबुबुधिरे' इत्याद्यारभ्य 'तौ ह द्वात्रिंशतं वर्षाणि