This page has been fully proofread once and needs a second look.

स्तोत्रभाष्यम् ।
 
देवानां ब्रह्मादीनां देवम्, अनन्तं देशतः कालतः वस्तुतश्चाप-
रिच्छिन्नम्, पुरुषोत्तमं क्षराक्षराभ्यां कार्यकारणाभ्यांयामुत्कृ-
ट्रष्टम्, नामसहस्रेण नाम्नां सहस्रेण स्तुवन् गुणसंकीर्तनं कुर्वन्
सततोत्थितः निरन्तरमुद्युक्तः पुरुषः--पुरे शयनाद्वा पूर्ण-
त्वाद्वा पुरुषः - --'सर्वदुःखातिगो भवेत्' इति सर्वत्र सं-
वध्यते ||
 
उत्तरेण श्लोकेन चतुर्थ: प्रश्न: परिट्ह्रियते -
 
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् |
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ ५
 
तमेव चार्चयन् बाह्यम् अभ्यर्चनं कुर्वन् नित्यं सर्वेषु
कालेषु भक्ति: भजनं तात्पर्येयं तया भक्त्या पुरुषम् अव्ययं
विनाशविक्रियारहितम्, तमेव च ध्यायन् आभ्यन्तरार्चनं
कुर्वन्, स्तुवन्, पूर्वोक्तरीत्या भक्त्या नमस्यंश्च नमस्कारं कुर्व-
न्,--पूजाशेषभूतमुभयं स्तुतिनमस्कारलक्षणम् -- यजमानः
पूजक: फलभोक्ता । अथवा, अर्चयन्नित्यनेनोभयविधमर्चन-
मुच्यते । ध्यायन्स्तुवन्नमस्यंश्चेत्यनेन मानसं वाचिकं कायिकं
चोच्यते ॥