This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
देवानां ब्रह्मादीनां देवम्, अनन्तं देशतः कालतः वस्तुतश्चाप-
रिच्छिन्नम्, पुरुषोत्तमं क्षराक्षराभ्यां कार्यकारणाभ्यांमुत्कृ-
ट्रम्, नामसहस्रेण नाम्नां सहस्रेण स्तुवन् गुणसंकीर्तनं कुर्वन्
सततोत्थितः निरन्तरमुयुक्तः पुरुषः– पुरे शयनाद्वा पूर्ण-
त्वाद्वा पुरुषः - 'सर्वदुःखातिगो भवेत्' इति सर्वत्र सं-
वध्यते ||
 
उत्तरेण श्लोकेन चतुर्थ: प्रश्न: परिट्रियते -
 
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् |
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ ५॥
 
तमेव चार्चयन् बाह्यम् अभ्यर्चनं कुर्वन् नित्यं सर्वेषु
कालेषु भक्ति: भजनं तात्पर्ये तया भक्त्या पुरुषम् अव्ययं
विनाशविक्रियारहितम्, तमेव च ध्यायन् आभ्यन्तरार्चनं
कुर्वन्, स्तुवन, पूर्वोक्तरीत्या भक्त्या नमस्यंश्च नमस्कारं कुर्व-
न्, – पूजाशेषभूतमुभयं स्तुतिनमस्कारलक्षणम् -- यजमानः
पूजक: फलभोक्ता । अथवा, अर्चयन्नित्यनेनोभयविधमर्चन-
मुच्यते । ध्यायन्स्तुवन्नमस्यश्चेत्यनेन मानसं वाचिकं कायिकं
चोच्यते ॥