This page has been fully proofread twice.

देवानां ब्रह्मादीनां देवम्, अनन्तं देशतः कालतः वस्तुतश्चाप-
रिच्छिन्नम्, पुरुषोत्तमं क्षराक्षराभ्यां कार्यकारणाभ्यामुत्कृ-
ष्टम्, नामसहस्रेण नाम्नां सहस्रेण स्तुवन् गुणसंकीर्तनं कुर्वन्
सततोत्थितः निरन्तरमुद्युक्तः पुरुषः--पुरे शयनाद्वा पूर्ण-
त्वाद्वा पुरुषः--'सर्वदुःखातिगो भवेत्' इति सर्वत्र <fix>सं-
ध्यते ॥</fix>
 
उत्तरेण श्लोकेन चतुर्थ:थः प्रश्न:नः परिह्रियते -
 
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ ५ ॥
 
तमेव चार्चयन् बाह्यम् अभ्यर्चनं कुर्वन् नित्यं सर्वेषु
कालेषु भक्ति:तिः भजनं तात्पर्यं तया भक्त्या पुरुषम् अव्ययं
विनाशविक्रियारहितम्, तमेव च ध्यायन् आभ्यन्तरार्चनं
कुर्वन्, स्तुवन्, पूर्वोक्तरीत्या भक्त्या नमस्यंश्च नमस्कारं कुर्व-
न्,--पूजाशेषभूतमुभयं स्तुतिनमस्कारलक्षणम् -- यजमानः
पूजक:कः फलभोक्ता । अथवा, अर्चयन्नित्यनेनोभयविधमर्चन-
मुच्यते । ध्यायन्स्तुवन्नमस्यंश्चेत्यनेन मानसं वाचिकं कायिकं
चोच्यते ॥