This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
१७५
 
तत्त्वज्ञाने नाहमधिकृत इत्युक्त्वा कथमेनं ब्रह्मविद्यया परमे
पढ़े परमात्मनि पूर्णानन्दे स्वाराज्ये स्थापयिष्यामीति मन्वानः
छान्दोग्योपनिषत्प्रसिद्धमितिहासं स्मृत्वा नान्योऽस्मादस्मै भूमा-
नं तमसः परं परमात्मानं दर्शयितुं शक्नुयादिति मत्वा तमेव
भगवन्तं सनत्सुजातं योगबलेनाहूय प्रत्युत्थानादिभिर्भगवन्तं
पूजयित्वा 'भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे । यो न
शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि ॥ श्रुत्वायं यं मनु-
प्येन्द्रः सर्वदुःखातिगो भवेत् । लाभालाभौ प्रियद्वेष्यौ तथैव
च जरान्तकौ ॥ विषहेत मदोन्मादौ क्षुत्पिपासे भयाभये ।
अरतिं चैव तन्द्रीं च कामक्रोधौ क्षयोदयौ' इति भगवन,
येनासौ सकलसंसारकारणधर्माधर्मविवर्जितः सुखदुःखातिगो
मुक्तो भवेत् तमस्मै धृतराष्ट्रीय वक्तुमर्हसीत्युक्तवान्—
वैशम्पायन उवाच -
 

 
ततो राजा धृतराष्ट्रो मनीषी
 
संपूज्य वाक्यं विदुरेरितं तत् ।
सनत्सुजातं रहिते महात्मा
 
पप्रच्छ वुद्धिं परमां दुभूषन् ॥ १ ॥
 
ततः एतद्वाक्यसमनन्तरं विदुरेण सनत्सुजातं प्रति