This page has not been fully proofread.

॥ श्रीः ॥
 
॥ सनत्सुजातीयम् ॥
 
श्रीमच्छंकरभगवत्पादविरचितेन
भाष्येण सहितम् ।
 
नमः पुंसे पुराणाय पूर्णानन्दाय विष्णवे ।
निरस्तनिखिलध्वान्तते जसे विश्वहेतवे ॥
 
नम आचार्येभ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यः ॥
 
सनत्सुजातीयविवरणं संक्षेपतो
 
ब्रह्मजिज्ञासूनां सुखावबोधायारभ्यते ॥
 
स्वतश्चित्सदानन्दाद्वितीयब्रह्मस्वरू
पोऽप्यात्मा स्वाश्रयया स्वविषयया अ-
विद्यया स्वानुभवगम्यया साभासया
स्वाभाविकचित्सदानन्दाद्वितीयब्रह्मा-
त्मभावात्प्रच्युतः अनात्मनि देहादावात्मभावमापन्नः अप्राप्ताशे-
4444444444
 
NANKAK